५.५६.३३

ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ॥

अन्वयः

ततः then, अहम् I, सर्वभूतैः all creatures, साधु साध्विति well done, well done, प्रशंसितः praised, ततः then, अहम् I, गरुडो यथा like Garuda, विपुलम् vast, अन्तरिक्षम् sky, प्लुतः leapt .

Summary

"Then all creatures praised me saying 'well done well done'. Then I leaped into the vast sky like Garuda.

पदच्छेदः

ततोततस् (अव्ययः)
ऽहंमद् (१.१)
साधुसाधु (१.१)
साध्वीतिसाधु (१.१)–इति (अव्ययः)
सर्वभूतैःसर्व–भूत (३.३)
प्रशंसितःप्रशंसित (√प्र-शंस् + क्त, १.१)
ततोततस् (अव्ययः)
ऽन्तरिक्षंअन्तरिक्ष (२.१)
विपुलंविपुल (२.१)
प्लुतोप्लुत (√प्लु + क्त, १.१)
ऽहंमद् (१.१)
गरुडोगरुड (१.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो ऽहं साधु सा ध्वीति
र्व भू तैःप्र शंसि तः
तोऽन्त रि क्षंविपु लं
प्लु तो ऽहंरु डो था