५.५६.४५

अस्तं दिनकरे याते रक्षसां निलयं पुरीम् ।
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ॥

अन्वयः

दिनकरे Sun, अस्तं याते after setting, अहम् I, भीमविक्रमैः of fierce valour, रक्षोभिः guarded, अविज्ञातः unnoticed, रक्षसाम् demons, निलयम् abode, पुरम् city, प्रविष्टः entered.

M N Dutt

On the sun having set, I entered the city of the Raksasas-their home-unnoticed by the Rākṣasas of terrific vigour.

पदच्छेदः

अस्तंअस्त (२.१)
दिनकरेदिनकर (७.१)
यातेयात (√या + क्त, ७.१)
रक्षसांरक्षस् (६.३)
निलयंनिलय (२.१)
पुरीम्पुरी (२.१)
प्रविष्टोप्रविष्ट (√प्र-विश् + क्त, १.१)
ऽहम्मद् (१.१)
अविज्ञातोअविज्ञात (१.१)
रक्षोभिर्रक्षस् (३.३)
भीमविक्रमैःभीम–विक्रम (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तंदि रे या ते
क्ष सांनि यंपु रीम्
प्र वि ष्टोऽह वि ज्ञा तो
क्षो भि र्भी विक्र मैः