५.५६.५६

ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता ॥

अन्वयः

ततः then, रावणदाराश्च Ravana's consorts, महाबलः powerful, रावणश्च Ravana's, सीता Sita, यत्र there, स्थिता stood, अभवत् came, तम् to her, देशम् location, समनुप्राप्ताः reached.

M N Dutt

Then the wives of Rāvana along with Rāvana himself of exceeding strength came to that place where Sītā was.

Summary

"Then arrived the powerful Ravana with his consorts to that place where Sita was and stood there.

पदच्छेदः

ततोततस् (अव्ययः)
रावणदाराश्चरावण–दार (१.३)–च (अव्ययः)
रावणश्चरावण (१.१)–च (अव्ययः)
महाबलःमहत्–बल (१.१)
तंतद् (२.१)
देशंदेश (२.१)
समनुप्राप्तासमनुप्राप्त (√समनुप्र-आप् + क्त, १.३)
यत्रयत्र (अव्ययः)
सीताभवत्सीता (१.१)–अभवत् (√भू लङ् प्र.पु. एक.)
स्थितास्थित (√स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो रा दा राश्च
राश्च हा लः
तं दे शं नु प्रा प्ता
त्र सी तात्स्थि ता