५.५६.७६

संभाषणार्थे च मया जानक्याश्चिन्तितो विधिः ।
इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः ॥

अन्वयः

मया I am, जानक्याः with Janaki, सम्भाषणार्थम् to enter into conversation, विधि strategy, चिन्तितः thought, ततः that, इक्ष्वाकूणाम् in Ikshvaku, वंशस्तु in the race, मम my, पुरस्कृतः to praise.

Summary

"I thought of a strategy to enter into conversation with Janaki that is to praise the Ikshvaku race.

पदच्छेदः

संभाषणार्थेसम्भाषण–अर्थ (७.१)
(अव्ययः)
मयामद् (३.१)
जानक्याश्चिन्तितोजानकी (६.१)–चिन्तित (√चिन्तय् + क्त, १.१)
विधिःविधि (१.१)
इक्ष्वाकुकुलवंशस्तुइक्ष्वाकु–कुल–वंश (१.१)–तु (अव्ययः)
ततोततस् (अव्ययः)
मममद् (६.१)
पुरस्कृतःपुरस्कृत (√पुरस्-कृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं भा णा र्थे या
जा क्या श्चिन्ति तोवि धिः
क्ष्वाकुकु वंस्तु
तोपुस्कृ तः