५.५६.८७

उत्तरं पुनरेवाह निश्चित्य मनसा तदा ।
हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे ॥

अन्वयः

अहम् I, तया to her, मनसा in mind, निश्चित्य determined, पुनरेव again, उक्तः said, हनुमान् Hanuman, राघवे to Rama, मम my, वृत्तान्तम् all about my story, वक्तुम् you tell, अर्हसि I wish.

M N Dutt

And revolving within herself she again replied 'Hanumān, do you relate this to Rāghava in such a wise that the heroes Rāma and Lakşmaņa, along with Sugrīva might instantly come here.

पदच्छेदः

उत्तरंउत्तर (२.१)
पुनर्पुनर् (अव्ययः)
एवाहएव (अव्ययः)–आह (√अह् लिट् प्र.पु. एक.)
निश्चित्यनिश्चित्य (√निः-चि + ल्यप्)
मनसामनस् (३.१)
तदातदा (अव्ययः)
हनूमन्ममहनुमन्त् (८.१)–मद् (६.१)
वृत्तान्तंवृत्तान्त (२.१)
वक्तुम्वक्तुम् (√वच् + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
राघवेराघव (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्त रंपु रे वा
नि श्चित्य सा दा
नून्म वृ त्ता न्तं
क्तुर्हसि रा वे