५.५६.९३

मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः ।
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥

अन्वयः

ततस्ततः here and there, समागम्य collecting together, तस्मिन् वने in that garden, माम् me, दृष्ट्वा saw, ताः them, क्षिप्रम् at once, समभ्यागताः understood, रावणाय to Ravana, आचचक्षिरे thus reported.

M N Dutt

And beholding me in the forest, they all, gathering, instantly conveyed the message to Ravana.

पदच्छेदः

मांमद् (२.१)
(अव्ययः)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
वनेवन (७.१)
तस्मिन्तद् (७.१)
समागम्यसमागम्य (√समा-गम् + ल्यप्)
ततस्ततःततस् (अव्ययः)–ततस् (अव्ययः)
ताःतद् (१.३)
समभ्यागताःसमभ्यागत (√समभ्या-गम् + क्त, १.३)
क्षिप्रंक्षिप्रम् (अव्ययः)
रावणायाचचक्षिरेरावण (४.१)–आचचक्षिरे (√आ-चक्ष् लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मां दृ ष्ट्वा नेस्मि
न्स माम्यस्त तः
ताः भ्या ताः क्षि प्रं
रा णा याक्षि रे