५.५८.१५

वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ।
सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ ॥

अन्वयः

वरोत्सेकेन armed with the pride of boons, मत्तौ च and intoxicated, वीरौ heroic, प्लवङ्गमौ monkeys, सुराणाम् of suras, महतीम् vast, चमूम् प्रमथ्य army slain, अमृतम् nectar of immortality, पीतवन्तौ drank.

Summary

"The heroic monkeys, proud of their boons became intoxicated it and slaughtered vast army and drank the nectar of immortality.

पदच्छेदः

वरोत्सेकेनवर–उत्सेक (३.१)
मत्तौमत्त (√मद् + क्त, १.२)
(अव्ययः)
प्रमथ्यप्रमथ्य (√प्र-मथ् + ल्यप्)
महतींमहत् (२.१)
चमूम्चमू (२.१)
सुराणाम्सुर (६.३)
अमृतंअमृत (२.१)
वीरौवीर (१.२)
पीतवन्तौपीतवत् (√पा + क्तवतु, १.२)
प्लवंगमौप्लवंगम (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रो त्से के त्तौ
प्रथ्य तीं मूम्
सु रा णामृ तं वी रौ
पी न्तौप्ल वं मौ