५.५९.१२

ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् ।
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥

अन्वयः

ततः then, कुमारः young Angada, वृद्धान् old, तान् him, जाम्बवत्प्रमुखान् chief of monkeys Jambavan, कपीन् monkey, अनुमान्य permitting, तेषाम् them, मधुभक्षणे to drink honey, निसर्गम् leave, ददौ gave.

Summary

Young Angada asked old Jambavan's permission for the vanaras to drink honey and Jambavan permitted them.

पदच्छेदः

ततःततस् (अव्ययः)
कुमारस्तान्कुमार (१.१)–तद् (२.३)
वृद्धाञ्जाम्बवत्प्रमुखान्वृद्ध (२.३)–जाम्बवन्त्–प्रमुख (२.३)
कपीन्कपि (२.३)
अनुमान्यअनुमान्य (√अनु-मानय् + ल्यप्)
ददौददौ (√दा लिट् प्र.पु. एक.)
तेषांतद् (६.३)
निसर्गंनिसर्ग (२.१)
मधुभक्षणेमधु–भक्षण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःकु मा स्ता न्वृ द्धा
ञ्जाम्बत्प्रमु खान्क पीन्
नु मान्य दौ ते षां
नि र्गंधुक्ष णे