५.६०.२१

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।
त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥

अन्वयः

वीराः heroic, ते they, तत् that, स्वामिवचनम् leader's words, हृदयेषु in their heart, अवसज्य rushed, सालतालशिलायुधाः Sala, Tala trees as weapons, त्वरया at once, अभ्यधावन्त ran.

Summary

The heroic vanaras held Sala and Tala trees and rushed at once keeping their leader's words in mind.

पदच्छेदः

तेतद् (१.३)
स्वामिवचनंस्वामिन्–वचन (२.१)
वीरावीर (१.३)
हृदयेष्ववसज्यहृदय (७.३)–अवसज्य (√अव-सञ्ज् + ल्यप्)
तत्तद् (२.१)
त्वरयात्वरा (३.१)
ह्यभ्यधावन्तहि (अव्ययः)–अभ्यधावन्त (√अभि-धाव् लङ् प्र.पु. बहु.)
सालतालशिलायुधाःसाल–ताल–शिला–आयुध (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते स्वामि नं वी रा
हृ येष्वज्य तत्
त्व या ह्यभ्य धान्त
सा ताशि लायु धाः