५.६२.१

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥

अन्वयः

सुग्रीवेण by Sugriva, एवम् in that way, उक्तः spoken, कपिः monkey, दधिमुखः Dadhimukha, हृष्टः pleased, राघवम् Rama, लक्ष्मणं चैव and also Lakshmana, सुग्रीवं च and Sugriva, अभ्यवादयत् offered salutations.

M N Dutt

Being thus addressed by Sugrīva, the monkey Dadhimuklia, delighted, bowed to him, Rāghava and Laksmana.

Summary

Pleased with Sugriva's command (to send forth Angada and Hanuman) Dadhimukha offered salutations to Sugriva, Rama and Lakshmana.

पदच्छेदः

सुग्रीवेणैवम्सुग्रीव (३.१)–एवम् (अव्ययः)
उक्तस्तुउक्त (√वच् + क्त, १.१)–तु (अव्ययः)
हृष्टोहृष्ट (√हृष् + क्त, १.१)
दधिमुखःदधिमुख (१.१)
कपिःकपि (१.१)
राघवंराघव (२.१)
लक्ष्मणंलक्ष्मण (२.१)
चैव (अव्ययः)–एव (अव्ययः)
सुग्रीवंसुग्रीव (२.१)
चाभ्यवादयत् (अव्ययः)–अभ्यवादयत् (√अभि-वादय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु ग्री वे णै मु क्तस्तु
हृ ष्टोधिमु खः पिः
रा वंक्ष्म णं चै
सु ग्री वं चाभ्य वा यत्