५.६२.२८

यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।
भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः ॥

अन्वयः

अकृतकृत्यानाम् in case they have not accomplished, उपक्रमः return, ईदृशः this way, यद्यपि स्यात् acted that way, सः he, दीनवदनः pathetic face, भ्रान्त विप्लुतमानसः perplexed and unsteady in mind, भवेत् would be.

M N Dutt

If the monkeys had engaged in such an unfair proceeding without being successful in their mission, Angada would have looked poorly and his mind would have been overwhelmed with grief and forgetfulness.

Summary

"In case the vanaras have returned without accomplishing the task, Angada would have assumed a pathetic face, perplexed and unsteady in mind.

पदच्छेदः

यद्यप्यकृतकृत्यानाम्यदि (अव्ययः)–अपि (अव्ययः)–अकृत–कृत्य (६.३)
ईदृशःईदृश् (५.१)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
उपक्रमःउपक्रम (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
तुतु (अव्ययः)
दीनवदनोदीन–वदन (१.१)
भ्रान्तविप्लुतमानसःभ्रान्त (√भ्रम् + क्त)–विप्लुत (√वि-प्लु + क्त)–मानस (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्यप्यकृ कृ त्या ना
मीदृ शः स्यादुक्र मः
वेत्तु दी नो
भ्रान्त विप्लु मा सः