५.६२.८

यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः ।
तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम ॥

पदच्छेदः

यथैवयथा (अव्ययः)–एव (अव्ययः)
हिहि (अव्ययः)
पितापितृ (१.१)
तेत्वद् (६.१)
ऽभूत्अभूत् (√भू प्र.पु. एक.)
पूर्वंपूर्वम् (अव्ययः)
हरिगणेश्वरःहरि–गण–ईश्वर (१.१)
तथातथा (अव्ययः)
त्वम्त्वद् (१.१)
अपिअपि (अव्ययः)
सुग्रीवोसुग्रीव (१.१)
नान्यस्तु (अव्ययः)–अन्य (१.१)–तु (अव्ययः)
हरिसत्तमहरि–सत्तम (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थैहिपि ता ते ऽभू
त्पू र्वंरि णेश्व रः
थात्वपि सु ग्री वो
ना न्यस्तुरित्त