५.६२.९

आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।
इहोपयानं सर्वेषामेतेषां वनचारिणाम् ॥

अन्वयः

अनघ blameless, मया I, गत्वा gone, तव your, पितृव्यस्य elder brother of your father, सर्वेषाम् all, एतेषाम् your people, वनचारिणाम् forestdwellers, इह here, उपयातम् your arrival, आख्यातं हि indeed told.

M N Dutt

O innocent prince, I have related all about this to your uncle. When I described to him, the arrival of all these forest rangers, as well as of yours accompanied by them, and the destruction of this garden by you all, he was not the least offended, rather delighted.

Summary

"O blameless prince I have already told your father's elder brother and all the forestdwellers about your arrival here.

पदच्छेदः

आख्यातंआख्यात (√आ-ख्या + क्त, १.१)
हिहि (अव्ययः)
मयामद् (३.१)
गत्वागत्वा (√गम् + क्त्वा)
पितृव्यस्यपितृव्य (६.१)
तवानघत्वद् (६.१)–अनघ (८.१)
इहोपयानंइह (अव्ययः)–उपयान (१.१)
सर्वेषाम्सर्व (६.३)
एतेषांएतद् (६.३)
वनचारिणाम्वन–चारिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ख्या तंहि या त्वा
पि तृ व्यस्य वा
हो या नं र्वे षा
मे ते षां चारि णाम्