५.६३.८

समुद्रं लङ्घयित्वाहं शतयोजनमायतम् ।
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ॥

अन्वयः

अहम् I, शतयोजनम् a hundred yojanas, आयतम् wide, समुद्रम् ocean, लङ्घयित्वा having crossed, जानकीम् Janaki,सीताम् Sita, मार्गमाणः searching, दिदृक्षया with the intention of seeing, आगच्छम् reached.

Summary

"Having crossed the sea consisting of a hundred yojanas in quest of Vaidehi, I found her.

पदच्छेदः

समुद्रंसमुद्र (२.१)
लङ्घयित्वाहंलङ्घयित्वा (√लङ्घय् + क्त्वा)–मद् (१.१)
शतयोजनम्शत–योजन (२.१)
आयतम्आयत (√आ-यम् + क्त, २.१)
अगच्छंअगच्छम् (√गम् लङ् उ.पु. )
जानकींजानकी (२.१)
सीतांसीता (२.१)
मार्गमाणोमार्गमाण (√मार्ग् + शानच्, १.१)
दिदृक्षयादिदृक्षा (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु द्रंङ्घ यि त्वा हं
यो मा तम्
च्छं जा कीं सी तां
मार्ग मा णोदि दृक्ष या