५.६३.९

तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥

अन्वयः

तत्र there, दक्षिणस्य समुद्रस्य on the southern side of the sea, दक्षिणे तीरे of the southern shore, दुरात्मनः evilminded, रावणस्य Ravana's, लङ्केति in Lanka, नगरी city, वसति there is.

Summary

"On the southern shore of the ocean is situated the city of Lanka , ruled by the evilminded Ravana.

पदच्छेदः

तत्रतत्र (अव्ययः)
लङ्केतिलङ्का (१.१)–इति (अव्ययः)
नगरीनगरी (१.१)
रावणस्यरावण (६.१)
दुरात्मनःदुरात्मन् (६.१)
दक्षिणस्यदक्षिण (६.१)
समुद्रस्यसमुद्र (६.१)
तीरेतीर (७.१)
वसतिवसति (√वस् लट् प्र.पु. एक.)
दक्षिणेदक्षिण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र ङ्केति री
रास्यदु रात्म नः
क्षिस्य मु द्रस्य
ती रेतिक्षि णे