५.६४.४

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।
वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥

अन्वयः

वधूकाले at the time of marriage, मूर्ध्नि to the head, आबद्धम् tied, यथा so, शोभते charming, इदम् this, मणिरत्नम् gem of ornament, मे श्वशुरेण my fatherinlaw, वैदेह्याः to Vaidehi, दत्तम् presented.

M N Dutt

This jewel was conferred on Sītā by my father-in-law at the time of our wedding, and to enhance its beauty, she wore it on her head.

पदच्छेदः

मणिरत्नम्मणि–रत्न (१.१)
इदंइदम् (१.१)
दत्तंदत्त (√दा + क्त, १.१)
वैदेह्याःवैदेही (६.१)
श्वशुरेणश्वशुर (३.१)
मेमद् (६.१)
वधूकालेवधू–काल (७.१)
यथायथा (अव्ययः)
बद्धम्बद्ध (√बन्ध् + क्त, १.१)
अधिकंअधिक (२.१)
मूर्ध्निमूर्धन् (७.१)
शोभतेशोभते (√शुभ् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

णित्नमि दं त्तं
वै दे ह्याःश्वशु रे मे
धू का ले थाद्ध
धि कं मूर्ध्नि शो ते