५.६४.७

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।
अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥

अन्वयः

अयं मणिः this gem, मे प्रियायाः my beloved, मूर्ध्नि head, शोभते हि indeed shone, अद्य now, अस्य its, दर्शनेन mere look, ताम् her, प्राप्तामिव as if I am seeing, चिन्तये I think.

M N Dutt

This excellent jewel appeared beautiful on the crown of my dear one, and methinks, on beholding it, I have as if got back my beloved spouse.

Summary

"This jewel was shining on the head of my beloved. Now its mere look makes me feel that I am seeing her.

पदच्छेदः

अयंइदम् (१.१)
हिहि (अव्ययः)
शोभतेशोभते (√शुभ् लट् प्र.पु. एक.)
तस्याःतद् (६.१)
प्रियायाप्रिय (६.१)
मूर्ध्निमूर्धन् (७.१)
मेमद् (६.१)
मणिःमणि (१.१)
अद्यास्यअद्य (अव्ययः)–इदम् (६.१)
दर्शनेनाहंदर्शन (३.१)–मद् (१.१)
प्राप्तांप्राप्त (√प्र-आप् + क्त, २.१)
ताम्तद् (२.१)
इवइव (अव्ययः)
चिन्तयेचिन्तये (√चिन्तय् लट् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यंहि शो ते स्याः
प्रि या या मूर्ध्नि मे णिः
द्यास्यर्श ने ना हं
प्रा प्तां तामि चिन्त ये