५.६४.९

इतस्तु किं दुःखतरं यदिमं वारिसंभवम् ।
मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ॥

अन्वयः

सौमित्रे O Saumitri, वारिसम्भवम् found in water, इमं मणिम् this jewel, वैदेहीम् of Vaidehi, आगतां विना without her, यत् पश्यामि seeing this, इतः here, दुःखतरम् cause more sorrow, किम् what?

M N Dutt

What greater grief can there be, O Saumitri, that I behold the jewel obtained from the ocean but not Vaidehi.?

Summary

"O Saumitri I see this jewel born (formed) under water but not her. What can be more sorrowful to me?

पदच्छेदः

इतस्तुइतस् (अव्ययः)–तु (अव्ययः)
किं (१.१)
दुःखतरंदुःखतर (१.१)
यद्यत् (अव्ययः)
इमंइदम् (२.१)
वारिसंभवम्वारि–सम्भव (२.१)
मणिंमणि (२.१)
पश्यामिपश्यामि (√पश् लट् उ.पु. )
सौमित्रेसौमित्रि (८.१)
वैदेहीम्वैदेही (२.१)
आगतंआगत (√आ-गम् + क्त, २.१)
विनाविना (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तु किं दुः रं
दि मं वारि सं वम्
णिं श्यामि सौ मि त्रे
वै दे ही मा तंवि ना