५.६५.३६

एतत्तवार्या नृपराजसिंह; सीता वचः प्राह विषादपूर्वम् ।
एतच्च बुद्ध्वा गदितं मया त्वं; श्रद्धत्स्व सीतां कुशलां समग्राम् ॥

अन्वयः

पराजसिंह lion among kings, आर्या noble, सीता Sita, विषादपूर्वम् sorrowful words, एतत् वचः all these words, तव your, आह spoken, मया my, गदितम् reflecting, तत् all this, बुद्ध्वा make him know, सीताम् Sita, समग्राम् in all respects, कुशलाम् safe, श्रद्धत्स्व have faith.

M N Dutt

Thus the worshipful Sítă gave vent to these piteous accents. Hearing these words do you believe that it is all well with her.

Summary

"O lion among kings noble Sita has spoken these words in grief: 'Make him know all this and tell him that Sita is faithful and safe in all respects.'इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तषष्टितमस्सर्गः॥Thus ends the sixtyseventh sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.

पदच्छेदः

एतत्एतद् (२.१)
तवार्यात्वद् (६.१)–आर्य (१.१)
नृपराजसिंहनृप–राजन्–सिंह (८.१)
सीतासीता (१.१)
वचःवचस् (२.१)
प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
विषादपूर्वम्विषाद–पूर्व (२.१)
एतच्चएतद् (२.१)–च (अव्ययः)
बुद्ध्वाबुद्ध्वा (√बुध् + क्त्वा)
गदितंगदित (२.१)
मयामद् (३.१)
त्वंत्वद् (१.१)
श्रद्धत्स्वश्रद्धत्स्व (√श्रद्-धा लोट् म.पु. )
सीतांसीता (२.१)
कुशलांकुशल (२.१)
समग्राम्समग्र (२.१)

छन्दः

इन्द्रवज्रा [११: ततजगग]

छन्दोविश्लेषणम्

१०११
त्त वा र्यानृ रा सिं
सी ता चः प्रावि षा पू र्वम्
च्च बु द्ध्वादि तं या त्वं
श्र द्धत्स्व सी तांकु लां ग्राम्