५.७.१३

मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् ।
कूटागारैः शुभाकारैः सर्वतः समलंकृतम् ॥

पदच्छेदः

मेरुमन्दरसंकाशैर्मेरु–मन्दर–संकाश (३.३)
उल्लिखद्भिर्उल्लिखत् (√उत्-लिख् + शतृ, ३.३)
इवाम्बरम्इव (अव्ययः)–अम्बर (२.१)
कूटागारैःकूटागार (३.३)
शुभाकारैःशुभ–आकार (३.३)
सर्वतःसर्वतस् (अव्ययः)
समलंकृतम्समलंकृत (√समलं-कृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मेरुन्द सं का शै
रुल्लिद्भिरि वाम्ब रम्
कू टा गा रैःशु भा का रैः
र्व तः लंकृ तम्