५.७.१८

ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् ।
रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ॥

अन्वयः

ततः then, प्रस्थितः he started, कान्ताम् beloved, वरस्त्रियमिव like his chief queen, रावणस्य Ravana's, मनः कान्ताम् dear his to heart, शुभाम् auspicious, महतीम् great, शालाम् hall, ददर्श saw.

Summary

Then he proceeded to an auspicious hall, which was Ravana's favourite like his chief queen dear to his heart.

पदच्छेदः

ततस्तांततस् (अव्ययः)–तद् (२.१)
प्रस्थितःप्रस्थित (√प्र-स्था + क्त, १.१)
शालांशाला (२.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
महतींमहत् (२.१)
शुभाम्शुभ (२.१)
रावणस्यरावण (६.१)
मनःकान्तांमनस्–कान्त (२.१)
कान्ताम्कान्ता (२.१)
इवइव (अव्ययः)
वरस्त्रियम्वर–स्त्री (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तां प्रस्थि तः शा लां
र्श तींशु भाम्
रास्य नः का न्तां
का न्तामिस्त्रि यम्