५.७.२६

इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ।
तर्पयामास मातेव तदा रावणपालिता ॥

अन्वयः

रावणपालिता chamber of Ravana, तदा then, माता इव like a mother, उत्तमैः with excellent, पञ्चभिः with the five, इन्द्रियार्थैः with objects of the senses, पञ्च five, इन्द्रियाणि sense organs, तर्पयामास satisfied.

Summary

The chamber of Ravana, like a mother, gratified all the five senses of Hanuman with proper objects of the senses.

पदच्छेदः

इन्द्रियाणीन्द्रियार्थैस्तुइन्द्रिय (२.३)–इन्द्रिय–अर्थ (३.३)–तु (अव्ययः)
पञ्चपञ्चन् (२.३)
पञ्चभिर्पञ्चन् (३.३)
उत्तमैःउत्तम (३.३)
तर्पयामासतर्पयामास (√तर्पय् प्र.पु. एक.)
मातेवमातृ (१.१)–इव (अव्ययः)
तदातदा (अव्ययः)
रावणपालितारावण–पालित (√पालय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्रि या णीन्द्रि या र्थैस्तु
ञ्चञ्चभि रुत्त मैः
र्प या मा मा ते
दा रा पालि ता