५.७.३८

स च ताभिः परिवृतः शुशुभे राक्षसाधिपः ।
यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥

अन्वयः

ताभिः with them, परिवृतः surrounded, सः राक्षसाधिपः the lord of demons, ताराभिः with stars, अभिसंवृतः encircled, श्रीमान् beautiful, उडुपतिः यथा like the Moon, शुशुभे shone.

M N Dutt

And surrounded by them, the Rākṣasa chief resembled the fair Moon encircled by the stars.

Summary

The lord of demons surrounded by women shone like the beautiful Moon encircled by stars.

पदच्छेदः

तद् (१.१)
(अव्ययः)
ताभिःतद् (३.३)
परिवृतःपरिवृत (√परि-वृ + क्त, १.१)
शुशुभेशुशुभे (√शुभ् लिट् प्र.पु. एक.)
राक्षसाधिपःराक्षस–अधिप (१.१)
यथायथा (अव्ययः)
ह्युडुपतिःहि (अव्ययः)–उडुपति (१.१)
श्रीमांस्ताराभिर्श्रीमत् (१.१)–तारा (३.३)
अभिसंवृतःअभिसंवृत (√अभिसम्-वृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता भिःरिवृ तः
शुशु भे राक्ष साधि पः
थाह्युडु तिः श्री मां
स्ता राभिभि संवृ तः