५.७.४०

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् ।
प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥

अन्वयः

तत्र there, योषिताम् of the young women, प्रभावर्णप्रसादाश्च lustre and grace, शुभार्चिषाम् releasing auspicious glow, महतीनाम् of the great, ताराणामिव like the stars, सुव्यक्तम् clearly, विरेजुः looked brilliant.

M N Dutt

And the shine, form, and splendour of those females resembled, forsooth those of magnificently displayed, noble and lustrous stars.

Summary

It was clear that the grace and lustre of those women looked brilliant like the lustre and grace of brilliant stars releasing an auspicious glow.

पदच्छेदः

ताराणाम्तारा (६.३)
इवइव (अव्ययः)
सुव्यक्तंसु (अव्ययः)–व्यक्त (२.१)
महतीनांमहत् (६.३)
शुभार्चिषाम्शुभ–अर्चिस् (६.३)
प्रभावर्णप्रसादाश्चप्रभा–वर्ण–प्रसाद (१.३)–च (अव्ययः)
विरेजुस्तत्रविरेजुः (√वि-राज् लिट् प्र.पु. बहु.)–तत्र (अव्ययः)
योषिताम्योषित् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता रा णामि सु व्य क्तं
ती नांशु भार्चि षाम्
प्र भा र्णप्र सा दाश्च
वि रे जु स्तत्र योषि ताम्