५.७.४५

चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः ।
हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥

अन्वयः

कासांचित् some, योषिताम् of young women, स्तनमध्येषु between their breasts, उत्कटाः large, चन्द्रांशुकिरणाभाश्च resembling the rays of the Moon, हाराः chains, सुप्ताः sleeping, हंसाः इव like the swans, बभुः appeared.

M N Dutt

And the pearl chains of some shining females resembling moon beams, having got topsy-turvy, was lying like sleeping swans between the breasts of the damsels.

Summary

The pearl chains, large and shining like rays of the Moon in the space between the breasts looked like sleeping swans.

पदच्छेदः

चन्द्रांशुकिरणाभाश्चचन्द्र–अंशु–किरण–आभ (१.३)–च (अव्ययः)
हाराःहार (१.३)
कासांचिद्कश्चित् (६.३)
उत्कटाःउत्कट (१.३)
हंसाहंस (१.३)
इवइव (अव्ययः)
बभुःबभुः (√भा लिट् प्र.पु. बहु.)
सुप्ताःसुप्त (√स्वप् + क्त, १.३)
स्तनमध्येषुस्तन–मध्य (७.३)
योषिताम्योषित् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्रांशुकि णा भाश्च
हा राः का सांचि दुत्क टाः
हं सा भुः सु प्ताः
स्त ध्येषु योषि ताम्