५.७.४९

मृदुष्वङ्गेषु कासांचित्कुचाग्रेषु च संस्थिताः ।
बभूवुर्भूषणानीव शुभा भूषणराजयः ॥

अन्वयः

कासांचित् for some women, मृदुषु on their tender, अङ्गेषु limbs, कुचाग्रेषु च and on the nipples of breasts, संस्थिताः set, शुभाः beautiful, भूषणराजयः collections of ornaments, भूषणानीव like ornaments, बभूवुः appeared.

M N Dutt

On the tender frames, as well as on the tops of the breasts, of graceful scratches consequent pressure, appeared like ornaments.

Summary

The beautiful imprints made by the (heavy) ornaments on the tender limbs, breasts and nipples of some women appeared like many ornaments.

पदच्छेदः

मृदुष्वङ्गेषुमृदु (७.३)–अङ्ग (७.३)
कासांचित्कश्चित् (६.३)
कुचाग्रेषुकुच–अग्र (७.३)
(अव्ययः)
संस्थिताःसंस्थित (√सम्-स्था + क्त, १.३)
बभूवुर्बभूवुः (√भू लिट् प्र.पु. बहु.)
भूषणानीवभूषण (१.३)–इव (अव्ययः)
शुभाशुभ (१.३)
भूषणराजयःभूषण–राजि (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मृ दु ष्व ङ्गेषु का सांचि
त्कु चा ग्रेषु संस्थि ताः
भू वु र्भू णा नी
शु भा भू रा यः