५.७.९

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ।
बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः ॥

अन्वयः

पवनात्मजः son of the Windgod, तस्य of that, हर्म्यस्य of the palace, मध्यस्थम् in the centre, सुनिर्मितम् well built, बहुनिर्यूहसङ्कीर्णम् a complex many houses, अन्यत् another, वेश्म home, ददर्श saw.

Summary

Hanuman saw in the centre of that palace a complex of many wellbuilt houses.

पदच्छेदः

तस्यतद् (६.१)
हर्म्यस्यहर्म्य (६.१)
मध्यस्थंमध्य–स्थ (२.१)
वेश्मवेश्मन् (२.१)
चान्यत् (अव्ययः)–अन्य (२.१)
सुनिर्मितम्सु (अव्ययः)–निर्मित (√निः-मा + क्त, २.१)
बहुनिर्यूहसंकीर्णंबहु–निर्यूह–संकीर्ण (√सम्-कृ + क्त, २.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
पवनात्मजःपवनात्मज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य र्म्यस्य ध्य स्थं
वेश्म चा न्यत्सु निर्मि तम्
हु नि र्यू सं की र्णं
र्श नात्म जः