५.८.११

अथारोहणमासाद्य वेदिकान्तरमाश्रितः ।
सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥

अन्वयः

महाकपिः great vanara, अथ then, आरोहणम् stairway, आसाद्य on reaching, वेदिकान्तरम् another altar, आश्रितः approached, सुप्तम् sleeping, राक्षसशार्दूलम् tiger among ogres, प्रेक्षते स्म glanced once again.

Summary

The great vanara ascended the stairway and reached another altar and once again looked at the sleeping Ravana, the tiger among demons.

पदच्छेदः

अथारोहणम्अथ (अव्ययः)–आरोहण (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
वेदिकान्तरम्वेदिका–अन्तर (२.१)
आश्रितःआश्रित (√आ-श्रि + क्त, १.१)
सुप्तंसुप्त (√स्वप् + क्त, २.१)
राक्षसशार्दूलंराक्षस–शार्दूल (२.१)
प्रेक्षतेप्रेक्षते (√प्र-ईक्ष् लट् प्र.पु. एक.)
स्मस्म (अव्ययः)
महाकपिःमहत्–कपि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था रो मा साद्य
वेदि कान्त माश्रि तः
सु प्तं राक्ष शा र्दू लं
प्रेक्ष तेस्म हा पिः