५.८.२३

मुक्तामणिविचित्रेण काञ्चनेन विराजता ।
मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥

पदच्छेदः

मुक्तामणिविचित्रेणमुक्तामणि–विचित्र (३.१)
काञ्चनेनकाञ्चन (३.१)
विराजताविराजत् (√वि-राज् + शतृ, ३.१)
मुकुटेनापवृत्तेनमुकुट (३.१)–अपवृत्त (√अप-वृत् + क्त, ३.१)
कुण्डलोज्ज्वलिताननम्कुण्डल–उज्ज्वलित (√उत्-ज्वल् + क्त)–आनन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्ताणिवि चि त्रे
काञ्च नेवि रा ता
मुकु टे ना वृ त्ते
कुण्ड लोज्ज्वलि ता नम्