५.८.२४

रक्तचन्दनदिग्धेन तथा हारेण शोभिता ।
पीनायतविशालेन वक्षसाभिविराजितम् ॥

पदच्छेदः

रक्तचन्दनदिग्धेनरक्तचन्दन–दिग्ध (√दिह् + क्त, ३.१)
तथातथा (अव्ययः)
हारेणहार (३.१)
शोभिनाशोभिन् (३.१)
पीनायतविशालेनपीन–आयत (√आ-यम् + क्त)–विशाल (३.१)
वक्षसाभिविराजितम्वक्षस् (३.१)–अभिविराजित (√अभिवि-राज् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्तन्द दि ग्धे
था हा रे शोभि ता
पी नावि शा ले
क्ष साभिवि राजि तम्