५.८.२५

पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ।
महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥

पदच्छेदः

पाण्डुरेणापविद्धेनपाण्डुर (३.१)–अपविद्ध (√अप-व्यध् + क्त, ३.१)
क्षौमेणक्षौम (३.१)
क्षतजेक्षणम्क्षतज–ईक्षण (१.१)
महार्हेणमहार्ह (३.१)
सुसंवीतंसु (अव्ययः)–संवीत (√सम्-व्ये + क्त, १.१)
पीतेनोत्तमवाससापीत (३.१)–उत्तम–वासस् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पाण्डु रे णा वि द्धे
क्षौ मेक्ष जेक्ष णम्
हा र्हेसु सं वी तं
पी ते नोत्त वा सा