५.८.२६

माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् ।
गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम् ॥

पदच्छेदः

माषराशिप्रतीकाशंमाष–राशि–प्रतीकाश (२.१)
निःश्वसन्तंनिःश्वसत् (√निः-श्वस् + शतृ, २.१)
भुजङ्गवत्भुजंग–वत् (अव्ययः)
गाङ्गेगाङ्ग (७.१)
महतिमहत् (७.१)
तोयान्तेतोय–अन्त (७.१)
प्रसुप्तमिवप्रसुप्त (√प्र-स्वप् + क्त, २.१)–इव (अव्ययः)
कुञ्जरम्कुञ्जर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा रा शिप्र ती का शं
निःश्व न्तंभुङ्ग वत्
गा ङ्गेति तो या न्ते
प्रसुमि कुञ्ज रम्