५.८.२७

चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम् ।
प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ॥

पदच्छेदः

चतुर्भिःचतुर् (३.३)
काञ्चनैर्काञ्चन (३.३)
दीपैर्दीप (३.३)
दीप्यमानैश्चतुर्दिशम्दीप्यमान (√दीप् + शानच्, ३.३)–चतुर्दिशम् (अव्ययः)
प्रकाशीकृतसर्वाङ्गंप्रकाशीकृत (√प्रकाशी-कृ + क्त)–सर्व–अङ्ग (२.१)
मेघंमेघ (२.१)
विद्युद्गणैर्विद्युत्–गण (३.३)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तु र्भिः काञ्च नै र्दी पै
र्दीप्य मा नैश्च तुर्दि शम्
प्र का शीकृ र्वा ङ्गं
मे घं वि द्युद्ग णैरि