५.८.४६

तासामेकान्तविन्यस्ते शयानां शयने शुभे ।
ददर्श रूपसंपन्नामपरां स कपिः स्त्रियम् ॥

अन्वयः

सः कपिः that vanara, तासाम् among them, एकान्तविन्यस्ते lying separately, शुभे excellent, शयने bed, शयानाम् sleeping, रूपसम्पन्नाम् richly endowed with beauty, स्त्रियम् women, ददर्श saw.

Summary

Hanuman saw some maidens lying on separate excellent beds, women richly endowed with beautysleeping.

पदच्छेदः

तासाम्तद् (६.३)
एकान्तविन्यस्तेएकान्त–विन्यस्त (√विनि-अस् + क्त, ७.१)
शयानांशयान (√शी + शानच्, २.१)
शयनेशयन (७.१)
शुभेशुभ (७.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
रूपसम्पन्नाम्रूप–सम्पन्न (√सम्-पद् + क्त, २.१)
अपरांअपर (२.१)
तद् (१.१)
कपिःकपि (१.१)
स्त्रियम्स्त्री (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता सा मे कान्त वि न्य स्ते
या नां नेशु भे
र्श रू सं न्ना
रां पिःस्त्रि यम्