५.९.२१

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ।
पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह ॥

अन्वयः

कपिः monkey, तदा then, राजतेषु in those made of silver, जाम्बूनदमयेषु च in those made of pure gold, कुम्भेषु in pots, भूरि abundant, पानश्रेष्ठम् best of wines, ददर्श ह saw.

M N Dutt

The monkey saw that foremost of all places set apart for drinking, containing silver and golden jars.

Summary

Hanuman saw the best of wines in large quantities kept in silver and pure gold pots.

पदच्छेदः

राजतेषुराजत (७.३)
(अव्ययः)
कुम्भेषुकुम्भ (७.३)
जाम्बूनदमयेषुजाम्बूनद–मय (७.३)
(अव्ययः)
पानश्रेष्ठंपान–श्रेष्ठ (२.१)
तदातदा (अव्ययः)
भूरिभूरि (२.१)
कपिस्तत्रकपि (१.१)–तत्र (अव्ययः)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा तेषु कु म्भेषु
जा म्बू येषु
पा श्रे ष्ठं दा भूरि
पि स्तत्रर्श