५.९.२२

सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ।
राजतानि च पूर्णानि भाजनानि महाकपिः ॥

अन्वयः

 स: महाकपिः that great monkey, शीधोः of wine, शातकुम्भानि made of gold, मणिमयानि च inlaid with gems also, राजतानि च and silver, पूर्णानि filled, भाजनानि vessels, अपश्यत् saw.

Summary

The great monkey saw the wine jars made of gold and silver studded with crystals and gems.

पदच्छेदः

सोतद् (१.१)
ऽपश्यच्छातकुम्भानिअपश्यत् (√पश् लङ् प्र.पु. एक.)–शातकुम्भ (२.३)
सीधोर्सीधु (६.१)
मणिमयानिमणि–मय (२.३)
(अव्ययः)
राजतानिराजत (२.३)
(अव्ययः)
पूर्णानिपूर्ण (२.३)
भाजनानिभाजन (२.३)
महाकपिःमहत्–कपि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सो ऽप श्य च्छा कु म्भानि
शी धोर्मणि यानि
रा तानि पू र्णानि
भा नानि हा पिः