५.९.२५

क्वचित्प्रभिन्नैः करकैः क्वचिदालोडितैर्घटैः ।
क्वचित्संपृक्तमाल्यानि जलानि च फलानि च ॥

अन्वयः

क्वचित् in one place, प्रभिन्नैः with broken, करकैः with pots, क्वचित् at other place, आलोलितैः with rolling, घटैः with pots, क्वचित् somewhere else, संपृक्तमाल्यानि strewn and mixed up flower garlands, जलानि च and water, फलानि च and fruits.

Summary

At some places he saw broken pots, at other places rolling pots and elsewhere flower garlands strewn and mixed up with water and fruits.

पदच्छेदः

क्वचित्क्वचिद् (अव्ययः)
प्रभिन्नैःप्रभिन्न (√प्र-भिद् + क्त, ३.३)
करकैःकरक (३.३)
क्वचिद्क्वचिद् (अव्ययः)
आलोडितैर्आलोडित (√आ-लोडय् + क्त, ३.३)
घटैःघट (३.३)
क्वचित्क्वचिद् (अव्ययः)
संपृक्तमाल्यानिसंपृक्त (√सम्-पृच् + क्त)–माल्य (२.३)
जलानिजल (२.३)
(अव्ययः)
फलानिफल (२.३)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्व चित्प्र भि न्नैः कैः
क्वचि दा लोडि तैर्घ टैः
क्व चि त्सं पृक्त मा ल्यानि
लानि लानि