५.९.२६

शयनान्यत्र नारीणां शून्यानि बहुधा पुनः ।
परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥

अन्वयः

अत्र there, नारीणाम् women's, शयनानि beds, पुनः again, बहुधा severally, शुभ्राणि clean (unused) काश्चित् some, वराङ्गनाः lovely women, परस्परम् each other, समाश्लिष्य having embraced, सुप्ताः slept.

M N Dutt

There were many bedsteads belonging to fair ones, remaining vacant; and at some places excellent women were sleeping touching each other.

Summary

Hanuman saw many beds some unused and some occupied by lovely women sleeping, embracing one another.

पदच्छेदः

शयनान्यत्रशयन (२.३)–अत्र (अव्ययः)
नारीणांनारी (६.३)
शून्यानिशून्य (२.३)
बहुधाबहुधा (अव्ययः)
पुनःपुनर् (अव्ययः)
परस्परंपरस्पर (२.१)
समाश्लिष्यसमाश्लिष्य (√समा-श्लिष् + ल्यप्)
काश्चित्कश्चित् (१.३)
सुप्तासुप्त (√स्वप् + क्त, १.३)
वराङ्गनाःवर–अङ्गना (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना न्यत्र ना री णां
शू न्यानिहु धापु नः
स्प रं मा श्लिष्य
का श्चि त्सु प्ता राङ्ग नाः