५.९.३४

निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः ।
जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः ॥

अन्वयः

तदा then, स्त्रियः women, निरीक्षमाणः while seeing, सः he, महाकपिः the great monkey, धर्मसाध्वसशङ्कितः thinking that he transgressed the moral code, महतीम् great, चिन्ताम् worry, जगाम experienced.

M N Dutt

Seeing those females, that mighty monkey, apprehending loss of righteousness, was seized with an exceeding great fear.

Summary

The great monkey was very much worried as he thought he had transgressed the moral code by watching the women.

पदच्छेदः

निरीक्षमाणश्चनिरीक्षमाण (√निः-ईक्ष् + शानच्, १.१)–च (अव्ययः)
ततस्ताःततस् (अव्ययः)–तद् (२.३)
स्त्रियःस्त्री (२.३)
तद् (१.१)
महाकपिःमहत्–कपि (१.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
महतींमहत् (२.१)
चिन्तांचिन्ता (२.१)
धर्मसाध्वसशङ्कितःधर्म–साध्वस–शङ्कित (√शङ्क् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि रीक्ष माश्च
स्ताःस्त्रि यः हा पिः
गा तीं चि न्तां
र्म साध्वङ्कि तः