६.१००.१३

अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् ।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥

पदच्छेदः

अभ्यषिञ्चत्अभ्यषिञ्चत् (√अभि-सिच् लङ् प्र.पु. एक.)
तद् (१.१)
धर्मात्माधर्म–आत्मन् (१.१)
शुद्धात्मानंशुद्ध–आत्मन् (२.१)
विभीषणम्विभीषण (२.१)
तस्यामात्यातद् (६.१)–अमात्य (१.३)
जहृषिरेजहृषिरे (√हृष् लिट् प्र.पु. बहु.)
भक्ताभक्त (१.३)
येयद् (१.३)
चास्य (अव्ययः)–इदम् (६.१)
राक्षसाःराक्षस (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्य षि ञ्चत्स र्मा त्मा
शु द्धा त्मा नंवि भी णम्
स्या मा त्याहृषि रे
क्ता ये चास्य राक्ष साः