६.१००.१८

कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।
प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया ॥

अन्वयः

रामः Rama, कृतकार्यम् accomplished, समृद्धार्थम् richly endowed, विभीषणम् Vibheeshana, दृष्टवा seeing, तस्य his, प्रियकाम्ययाएव to please, तत् those, सर्वम् all, प्रतिजग्राह received in return

M N Dutt

Beholding Vibhīşaņa crowned with prosperity and success, Rāma accepted them all for his satisfaction.

Summary

Rama having accomplished the task, thoughtfully pleased did not desire for the offerings, accepted them to please Vibheeshana.

पदच्छेदः

कृतकार्यंकृत (√कृ + क्त)–कार्य (२.१)
समृद्धार्थंसमृद्ध (√सम्-ऋध् + क्त)–अर्थ (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रामोराम (१.१)
विभीषणम्विभीषण (२.१)
प्रतिजग्राहप्रतिजग्राह (√प्रति-ग्रह् लिट् प्र.पु. एक.)
तत्तद् (२.१)
सर्वंसर्व (२.१)
तस्यैवतद् (६.१)–एव (अव्ययः)
प्रियकाम्ययाप्रिय–काम्या (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कृ का र्यं मृ द्धा र्थं
दृ ष्ट्वा रा मोवि भी णम्
प्रति ग्रा त्स र्वं
स्यैप्रि काम्य या