६.१००.२२

प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।
प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि ॥

पदच्छेदः

प्रियम्प्रिय (२.१)
एतद्एतद् (२.१)
उदाहृत्यउदाहृत्य (√उदा-हृ + ल्यप्)
मैथिल्यास्त्वंमैथिली (६.१)–त्वद् (१.१)
हरीश्वरहरि–ईश्वर (८.१)
प्रतिगृह्यप्रतिगृह्य (√प्रति-ग्रह् + ल्यप्)
(अव्ययः)
संदेशम्संदेश (२.१)
उपावर्तितुम्उपावर्तितुम् (√उपा-वृत् + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रि मेदु दा हृत्य
मै थि ल्या स्त्वं रीश्व
प्रति गृह्य सं दे
मु पार्तितुर्हसि