६.१०१.२

प्रविश्य तु महातेजा रावणस्य निवेशनम् ।
ददर्श शशिना हीनां सातङ्कामिव रोहिणीम् ॥

पदच्छेदः

प्रविश्यप्रविश्य (√प्र-विश् + ल्यप्)
तुतु (अव्ययः)
महातेजामहत्–तेजस् (१.१)
रावणस्यरावण (६.१)
निवेशनम्निवेशन (२.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
शशिनाशशिन् (३.१)
हीनांहीन (√हा + क्त, २.१)
सातङ्काम् (अव्ययः)–आतङ्क (२.१)
इवइव (अव्ययः)
रोहिणीम्रोहिणी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र विश्यतु हा ते जा
रास्यनि वे नम्
र्शशि ना ही नां
सा ङ्कामि रोहि णीम्