६.१०१.३

निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ।
रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥

पदच्छेदः

निभृतःनिभृत (१.१)
प्रणतःप्रणत (√प्र-नम् + क्त, १.१)
प्रह्वःप्रह्व (१.१)
सोतद् (१.१)
ऽभिगम्याभिवाद्यअभिगम्य (√अभि-गम् + ल्यप्)–अभिवाद्य (√अभि-वादय् + ल्यप्)
(अव्ययः)
रामस्यराम (६.१)
वचनंवचन (२.१)
सर्वम्सर्व (२.१)
आख्यातुम्आख्यातुम् (√आ-ख्या + तुमुन्)
उपचक्रमेउपचक्रमे (√उप-क्रम् लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निभृ तःप्र तः प्र ह्वः
सोऽभि म्याभि वाद्य
रास्य नंर्व
मा ख्यातुमुक्र मे