६.१०१.२२

अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।
हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम् ॥

अन्वयः

हतशत्रुम् enemy killed, विजयिनम् victorious, सुस्थितम् happy, रामम् Rama, पश्यामि see, अर्थतः meaningful, मया by me, देवराज्यादयः rulership of gods, गुणाः virtues, प्राप्ताः attained

Summary

"Now that the enemy is killed, Rama is happy, which means as if I have attained the rulership of gods."

पदच्छेदः

अर्थतश्चअर्थ (५.१)–च (अव्ययः)
मयामद् (३.१)
प्राप्ताप्राप्त (√प्र-आप् + क्त, १.३)
देवराज्यादयोदेव–राज्य–आदि (१.३)
गुणाःगुण (१.३)
हतशत्रुंहत (√हन् + क्त)–शत्रु (२.१)
विजयिनंविजयिन् (२.१)
रामंराम (२.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
यत्यत् (अव्ययः)
स्थितम्स्थित (√स्था + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्थश्च या प्रा प्ता
दे रा ज्या योगु णाः
त्रुंवियि नं
रा मं श्यामित्स्थि तम्