६.१०१.२३

इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥

अन्वयः

इमाः these, पुरा in the past, त्वम् you, याभिः whoever, तर्जिताः threatened, राक्षस्यः Rakshasas, खलु indeed, त्वम् you, अनुमन्यसेयदि intimidated, ताःसर्वाः all those, हन्तुम् to kill, इच्छामि I desire

Summary

"I desire to kill all those Rakshasas who in the past have intimidated you indeed and whoever threatened you."

पदच्छेदः

इमास्तुइदम् (२.३)–तु (अव्ययः)
खलुखलु (अव्ययः)
राक्षस्योराक्षसी (२.३)
यदियदि (अव्ययः)
त्वम्त्वद् (१.१)
अनुमन्यसेअनुमन्यसे (√अनु-मन् लट् म.पु. )
हन्तुम्हन्तुम् (√हन् + तुमुन्)
इच्छाम्यहंइच्छामि (√इष् लट् उ.पु. )–मद् (१.१)
सर्वासर्व (२.३)
याभिस्त्वंयद् (३.३)–त्वद् (१.१)
तर्जितातर्जित (√तर्जय् + क्त, १.१)
पुरापुरा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मास्तुलु रा क्ष स्यो
दित्वनुन्य से
न्तु मि च्छाम्य हं र्वा
या भि स्त्वंर्जि तापु रा