६.१०१.८

लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।
रावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥

पदच्छेदः

लब्धोलब्ध (√लभ् + क्त, १.१)
नोमद् (६.३)
विजयःविजय (१.१)
सीतेसीता (८.१)
स्वस्थास्वस्थ (१.१)
भवभव (√भू लोट् म.पु. )
गतव्यथागत (√गम् + क्त)–व्यथा (१.१)
रावणःरावण (१.१)
तद् (१.१)
हतःहत (√हन् + क्त, १.१)
शत्रुर्शत्रु (१.१)
लङ्कालङ्का (१.१)
चेयं (अव्ययः)–इदम् (१.१)
वशेवश (७.१)
स्थितास्थित (√स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्धो नोवि यः सी ते
स्व स्थाव्य था
रा णः तःत्रु
र्ल ङ्का चे यं शेस्थि ता