६.१०२.१३

ततः सीतां शिरःस्नातां युवतीभिरलंकृताम् ।
महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥

पदच्छेदः

ततःततस् (अव्ययः)
सीतांसीता (२.१)
शिरःस्नातांशिरस्–स्नात (√स्ना + क्त, २.१)
युवतीभिर्युवती (३.३)
अलंकृताम्अलंकृत (√अलम्-कृ + क्त, २.१)
महार्हाभरणोपेतांमहार्ह–आभरण–उपेत (√उप-इ + क्त, २.१)
महार्हाम्बरधारिणीम्महार्ह–अम्बर–धारिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः सी तांशि रः स्ना तां
यु तीभि लंकृ ताम्
हा र्हा णो पे तां
हा र्हाम्ब धारि णीम्