६.१०२.२९

तदानय समीपं मे शीघ्रमेनां विभीषण ।
सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ॥

पदच्छेदः

तद्तद् (२.१)
आनयआनय (√आ-नी लोट् म.पु. )
समीपंसमीप (२.१)
मेमद् (६.१)
शीघ्रम्शीघ्रम् (अव्ययः)
एनांएनद् (२.१)
विभीषणविभीषण (८.१)
सीतासीता (१.१)
पश्यतुपश्यतु (√पश् लोट् प्र.पु. एक.)
माम्मद् (२.१)
एषाएतद् (१.१)
सुहृद्गणवृतंसुहृद्–गण–वृत (√वृ + क्त, २.१)
स्थितम्स्थित (√स्था + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा मी पं मे
शीघ्र मे नांवि भी
सी ताश्यतु मा मे षा
सु हृद्गवृ तंस्थि तम्