६.१०२.३६

अथ समपनुदन्मनःक्लमं सा; सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।
वदनमुदितपूर्णचन्द्रकान्तं; विमलशशाङ्कनिभानना तदासीत् ॥

M N Dutt

Beholding the gentle countenance of her dearest lord, resembling the full moon the removed her mental distress. Thereupon she appeared (beautiful) having the countenance of the clear moon.

पदच्छेदः

अथअथ (अव्ययः)
समपनुदन्मनःक्लमंसमपनुदत् (√समप-नुद् लङ् प्र.पु. एक.)–मनस्–क्लम (२.१)
सातद् (१.१)
सुचिरम्सु (अव्ययः)–चिरम् (अव्ययः)
अदृष्टम्अदृष्ट (२.१)
उदीक्ष्यउदीक्ष्य (√उत्-ईक्ष् + ल्यप्)
वैवै (अव्ययः)
प्रियस्यप्रिय (६.१)
वदनम्वदन (२.१)
उदितपूर्णचन्द्रकान्तंउदित (√उत्-इ + क्त)–पूर्ण–चन्द्र–कान्त (२.१)
विमलशशाङ्कनिभाननाविमल–शशाङ्क–निभ–आनन (१.१)
तदासीत्तदा (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)

छन्दः

पुष्पिताग्रा []

छन्दोविश्लेषणम्

१०१११२१३
नुन्म नःक्ल मं सा
सुचि दृष्टमु दीक्ष्य वैप्रिस्य
मुदि पूर्णन्द्र का न्तं
वि शाङ्कनि भा ना दा सीत्